________________
स्वोपज्ञलघुवृत्तिः
[ ३५१]
सम-प्राद् वसात् । ५ । २ । ६१ । आभ्यां पराद् वसतेः शीलादिसदर्थाद् घिनणू स्यात् । संवासी प्रवासी ॥ ६१ ॥
समत्यपाऽभिव्यभेश्वरः | ५ | २ | ६२ |
एभ्यः परात् चरेः शीलादिसदर्थाद् घिनण् स्यात् । सञ्चारी, अतिचारी, अपचारी, अभिचारी, व्यभिचारी ॥ ६२ ॥
समनुः व्यवाद् रुधः । ५ | २ | ६३ | एभ्यः पराच्छीलादिसदर्थाद् रुधो धिनण् स्यात् । संरोधी, अनुरोधी, विरोधी, अवरोधी ॥ ६३ ॥ वेर्दहः | ५ | २ | ६४ ॥
विपूर्वात् शीलादिसदर्थाद् दहेर्धिनण् स्यात् । विदाही
॥ ६४ ॥
पर्देवि -मुहश्व | ५ | २ | ६५ ॥
|
परिपूर्वाभ्यां शीलादिसदर्थाभ्यामाभ्यां दहेश्च घिन स्यात् । परिदेवी, परिमोही, परिदाही ॥ ६५ ॥ क्षिप-रटः | ५ | २ | ६६ |
परिपूर्वाभ्यामाभ्यां शीलादिसदर्थाभ्यां घिनण् स्यात् परिक्षेपी, परिराटी ॥ ६६ ॥
वादेश्च णकः | ५ | २ | ६७ ।
परिपूर्वात् शीलादिसदर्थाद् वादयतेः, क्षिपरदिभ्यां च कः स्यात् । परिवादकः, परिक्षेपकः, परिराटकः ||६७||