SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ [३४६] हैमशब्दानुशासनस्य तृन शील-धर्म-साधुषु । ५। २ । २७। . शीलादिषु सदर्थाद् धातोस्तृन् स्यात् । कर्ता कटम् , वधूमूढां मुण्डयितारः श्राविष्टायनाः, गन्ता खेलः ॥२७॥ भ्राजि-अलङकृग्-निराकग्-भू-सहि-रुचि-वृति-वृधि चरि-प्रजनाऽपत्रप इष्णुः । ५। २ ॥ २८। .. एभ्यः शीलादिसदर्थेभ्य इष्णुः स्यात् । भ्राजिष्णुः, अलकरिष्णुः, निराकरिष्णुः, भविष्णुः, सहिष्णुः, रोचिष्णु, वर्तिष्णुः, वर्द्धिष्णुः, चरिष्णुः, प्रजनिष्णुः, अपत्रपिष्णुः ॥ २८ ॥ उदः पचि-पति-पदि-मदेः। ५ । २॥२९॥ उत्पूर्वेभ्य एभ्यः शीलादिसंदर्थभ्य इष्णुः स्यात् । उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः ॥ २९ ॥ ____भू-जेः ष्णुकू । ५ । २ । ३० । आभ्यां शीलादिसदाभ्यां ष्णुक् स्यात्। भूष्णुः, जिष्णुः ॥ ३० ॥ स्था ग्ला-म्ला-पचि परिमृजि-क्षेः स्नुः ।५।२।३१। एभ्यः शीलादिसदर्थेभ्यः स्नुः स्यात् । स्थास्नुः, ग्लास्नुः, म्लास्नुः, पक्ष्णुः, परिमाणुः, क्षेष्णुः ॥ ३१ ॥ सि-गृधि-धृषि-क्षिपः क्नुः । ५। २ । ३२ । ___एभ्यः शीलादिसदर्थेभ्यः क्नुः स्यात् । त्रस्नुः, गृध्नुः, धृष्णुः, क्षिप्नुः ॥ ३२॥ सन-भिक्षाऽऽशंसेरुः । ५। २ । ३३ । शीलादिसर्थात् सन्नन्ताद भिक्षाऽऽशंसिभ्यां च उः स्यात् । लिप्सुः, भिक्षुः, आशंसुः ॥ ३३ ॥ . १ ऊढवध्वा मुण्डनं श्राविष्ठावनानां कुलधर्मः । गन्ता साधु गच्छतीत्यर्थः।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy