SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [ ३४७ ] विन्दु-इच्छू । ५ । २ । ३४ । शीलादिसदर्थाभ्यां वेत्तीच्छतिभ्यामुः यथासङ्ख्यं नुपान्त्यच्छान्तादेशौ च निपात्येते । विन्दुः इच्छुः ||३४|| शृचन्देरारुः । ५ । २ । ३५ । आभ्यां शीलादिसदर्थाभ्यां आरुः स्यात् । विशरारुः, वन्दारुः ।। ३५ ।। the दा-वे-सि-शद-सदो रुः । ५ । २ । ३६ । शीलादिसदर्थेभ्यो दारूपधेसिशद सद्भयो रुः स्यात् । दारुः, धारुः सेरुः, शत्रुः, सद्रुः ॥ ३६ ॥ शीड्-श्रद्धा-निद्रा तन्द्रा-दय-पति-गृहि-स्पृहेऱालुः | ५ | २ | ३७ । एभ्यः शीलादिसदर्थेभ्य आलुः स्यात् । शयालुः, श्रद्धालुः, निद्रालुः दयालुः तन्द्रालुः पतयालुः, गृहयालुः, स्पृहयालुः ॥ ३७ ॥ ङौ सासहि-वावहि-चाच लि-पापतिः | ५ | २ | ३८ । शीलादिसदर्थानां सहिवहिचलिपतां यङन्तानां कौ सति यथासङ्ख्यमेते निपात्यन्ते । सासहिः, बाबहिः, चाचलिः पापतिः ॥ ३८ ॥ सस्त्रि-चक्र-दधि-जज्ञि - नेमिः । ५ । २ । ३९ । एते शीलादौ सदर्थाद् द्वयुक्तमन्तो यन्ता निंपात्यन्ते । सस्त्रिः चत्रिः, दधिः, जज्ञिः, नेमिः ॥ ३९ ॥ १ सृ-कृ-टू- जन्- नमां धातूनां स्थाने ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy