________________
स्वोषज्ञलघुवृत्तिः [३४५] . शत्रानशावेष्यति' तु सस्यौ। ५।२।२०। __ सदर्थाद्धातोः शत्रानशौ स्थाता, भविष्यन्तीविषयेऽर्थे स्ययुक्तौ। यान् , शयाना, यास्यन् , शविष्यमाणः ॥२०॥
तो माडयाक्रोशेषु । ५।२।२१।। माङ्युपपदे आक्रोशेगम्ये तौशत्रानशादेवस्मताम्। मा पचन् कृषलो ज्ञास्यति।मा पचमानोऽसौ मर्नुकालः२१॥
वा वेत्तेः क्वसुः। ५। २ | २२॥ सदद्वत्तेः क्वसुर्वा स्यात् । तत्त्वं विद्वान्, क्दिन।।२।।
पूड.-यजः शानः।५।२ । २३ । आभ्यां सदाभ्यां परः शानः स्यात्। पवमानः, यजमानः ॥ २३॥
वयः-शक्ति-शीले । ५। २ | २४ । एषु गम्येषु सदर्थाद्धातोः शानः स्यात्। स्त्रियं गच्छमानाः, समश्नानाः, परान्निन्दमानाः ॥ २४ ॥
धारीङोऽकृच्छ्रेऽतृश् । ५ । २ । २५ । सुखसाध्ये सत्यर्थे वर्तमानाद् धारेरिङश्च परोऽतश् स्यात् । धारयन् आंचाराङ्गम् , अधीयन् द्रुमपुष्पीयम् ॥२५॥
सुग-द्विषार्हः सत्रि-शत्रु-स्तुत्ये।५।२२६
सदर्थेभ्य एभ्यो यथासङ्ख्यं सत्रिणि शत्रौ स्तुत्ये च कर्त्तर्यतृश् स्यात् । सर्वे सुन्वन्तः, चौरं द्विषन् , पूजामईन् । एष्विति किम् ? सुरां सुनोति ॥ २६ ॥ १ भविष्यति काले तु स्यसहितौ शत-आनशौ भक्त इति भवः । २ जनानां प्रथममागमम् । दशवकालिकनाम्नः सूत्रस्य प्रथममध्ययनं दुमपुष्पीयम्। ३ रात्री यजमानस्तत्र । चौरं द्विषनित्यत्र चौरस्य भानुः, पूजामहमित्यत्र
स्तुत्य इत्यर्थः।