SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ [३४२] हैमशब्दानुशासनस्य रात्रौ वसोऽन्त्ययामाऽस्वप्तर्यद्य ।५।२।६। रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी स्यात् , स चेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्त्याऽस्वप्तरि कर्त्तरि स्यात् । अद्यतनेनैवान्त्ययामेनावच्छिन्ने अद्यतने चेत् प्रयोगोऽस्ति नाद्यतनान्तरे। अमुत्रावात्सम् । राज्यऽन्त्ययामे तु मुहूर्तमपि स्वापेऽमुत्रावसमिति ॥६॥ अनद्यतने ह्यस्तनी । ५। २ । ७। आन्याय्याद् उत्थानादान्याय्यात् च संवेशनादहरुभयतः, सार्द्धरात्रं वाऽद्यतना, तस्मिन्नसति भूतार्थाद् धातोयस्तनी स्यात् । अकरोत् ॥ ७॥ . ___ ख्याते दृश्ये । ५ । २ ।। लोकविज्ञाते प्रयोक्तुःशक्यदर्शने भूतानद्यतनेऽर्थे वर्तमानाद्धातोस्तिनी स्यात् । अरूणत् सिद्धराजोऽवन्तीम् । ख्यात इति किम् ? चकार कटम् । दृश्य इति किम् ? जघान कंसं किल वासुदेवः ॥ ८ ॥ अयदि स्मृत्यर्थे भविष्यन्ती ।५।२।९। स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थवृत्तेधातोर्भविष्यन्ती स्यात्, अयद्योगे। स्मरसि साधो! स्वर्गे स्थास्यामः। अयदीति किम् ? अभिजानासि मित्र ! यत् कलिङ्गेष्ववसाम ? ॥९॥ १ अनन्तरं गताया रात्रेर्यामद्वयादर्वाग् यावदागामिन्या रात्रेः प्रथमं यामद्वयम् , दिवसश्च सकलः सोऽद्यतनः काल इति तात्पर्यम् । २ यच्छब्दे उपपदे भविष्यन्ती न स्यादित्यर्थः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy