________________
स्वोपज्ञलघुवृत्तिः [३४३] , वाकाङ्क्षायाम्। ५। २।१०।
स्मृत्यर्थे धातावुपपदे प्रयोक्तुः क्रियान्तराज्ञायां सत्यां भूतानद्यतनार्थाद् धातोभविष्यन्ती वा स्यात् । स्मरसि मित्र ! कश्मीरेषु वत्स्यामोऽवसाम वा। तत्रौदनं भोक्ष्यामहे, अभुञ्जमहि वा ? ॥ १० ॥
कृताऽस्मरणाऽतिनिन्हवे परोक्षा । ५। २ । ११ । ___ कृतस्यापि चित्तविक्षेपादिनाऽस्मरणेऽत्यन्तनिह्नवे वा गम्ये भूतानद्यतनार्थाद् धातोः परोक्षा स्यात् । सुप्तोऽहं किल विललाप । कलिङ्गेषु ब्राह्मणो हतस्त्वया, नाऽहं कलिङ्गान् जगाम ॥ ११ ॥
परोक्षे । ५। २ । १२ । भूतानद्यतने परोक्षार्थाद् धातोः परोक्षा स्यात् । धर्म दिदेश तीर्थङ्करः ॥ १२ ॥ ह-शश्वद्-युगान्तःप्रच्छये ह्यस्तनी च । ५।२।१३ ।
हे शश्वति च प्रयुक्ते पञ्चवर्षमध्यप्रच्छये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोह्यस्तनीपरोक्षे स्याताम् । इति हाकरोत् , इति ह चकार, शश्वदकरोत्, शश्वच्च कार, किमगच्छस्त्वं मथुराम् ? किं जगन्थ त्वं मथुराम् ॥ १३ ॥
__ अविवक्षिते । ५। २ । १४ । भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातोहस्तनी स्यात् । अहन कंसं किल वासुदेवः ॥१४॥
१ चक्रे सुबन्धुः सुजनैकबन्धु। (वासवदत्ता) इत्यत्र "अनवधानेऽपि स्वस्येदृशान्यनिर्माणं सुशकामति'' तट्टोका कारः समादधे । आदिपदात् भेदोपेक्षातिहदिनाऽस्मयपि परोक्षा स्यादिति भावः । नाऽहं कलिङ्गान् जगाने ते निहवः ।