________________
[३४१]
स्वोपज्ञलघुवृत्तिः ॥ द्वितीयः पादः॥
श्रु-सद-वस्भ्यः परोक्षा वा । ५। २।१। एम्यो भूतार्थेभ्यः परोक्षा वा स्यात् । उपशुश्राव, उपससाद, अनूवास । पक्षे, उपाश्रौषीत्, उपाशृणोत्, उपासदत् , उपासीदत् । अन्वात्सीत् , अन्ववसत् ॥१॥ ___ तत्र क्वसु-कानौ तद्वत् । ५। २।२।
परोक्षामात्रविषये धातोः परौ क्षसुकानौ स्यातां, तौ च परोक्षेव । शुश्रुवान् , सेदिवान् , षिवान् , पेचिपान , पेचानः ॥२॥ वा ईयिवत्:अनाश्वत्-अनूचानम् । ५ । २ । ३ ।
एते भूतेऽर्थे क्वसुकानान्ताः कर्तरि वा निपात्यन्ते। समीयिवान् , अनाश्वान , अनूचानः। पक्षे, अगात् , उपैत् उपेयाय, नाशीत् , नाश्नात् , नाश, अन्ववोचत् , अन्ववक् , अन्वब्रवीत् , अनूवाच ॥३॥
__अद्यतनी । ५। २।४ । ... भूतार्थाद्धातोरद्यतनी स्यात् । अकार्षीत् ॥४॥
विशेषाऽविवक्षाव्यामिश्रे। ५।२।५।
अनद्यतनादिविशेषाऽविवक्षां व्यामिश्रणे च सति भूतार्थाद् धातोरद्यतनी स्यात् । रामो वनमगमत् । अय यो वाऽभुक्ष्महि ॥५॥
१ वा वचनात् पक्षे यथा स्वकालमद्यतनी ह्यस्तनी च भवतीत्याचार्यः । परोक्षाऽद्यतनीवर्तमानादीनां णमादयः प्रत्ययाः तृतीयाध्यायतृतीयपारे द्रष्टव्याः