SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ [३४०] हैमशब्दानुशासनस्य अनोजेनेडः । ५। १ । १६८ । कर्मणः परावनुपूर्वात् भूतार्थाद् जनेर्डः स्यात् । पुमनुजः ॥ १६८ ॥ सप्तम्याः । ५।१।१६९। सप्तम्यन्ताद् भूतार्थात् जनेर्डः स्यात् । मन्दुरजः॥१६९॥ अजातेः पञ्चम्याः।५।१। १७० । पश्चम्यन्तादजात्यर्थाद् भूतार्थाद् जनेर्डः स्यात् । बुद्विजः। अजातेरिति किम् ? गजात् जातः ॥ १७० ।। क्वचित् । ५। १ । १७१ । उक्तादन्यत्रापि यथालक्ष्यं डः स्यात् । किञ्जः, अनुजः, अजः, स्त्रीजा, ब्रह्मज्या, वराहः, आखः ॥ १७१ ।। सु-यजोङ्वनि प् | ५। १ । १७२ । आम्यां भूतार्थान्यां वनिप् स्यात् । सुत्वानो, यज्वा ॥ १७२ ॥ जुषोऽतः ।५।१ । १७३ । जुषेर्भूतार्थादतः स्यात् । जरती ॥ १७३ ॥ क्त-क्तवतू । ५। १ । १७४ । भूतार्थाद् धातोरेतौ स्याताम् । कृतः, कृतवान् ॥१७४॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुकृत्ती पश्चमस्याध्यायस्य प्रथमः पादः समाप्तः॥५।१॥ १ ब्रह्मणि जीनवान् इति ज्याधातोर्डः । परमाहतवानिति. वराहः । २ पकारः पिकावेतकारायः। सकारो गुणनिषेधार्थः । इदुचारार्थः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy