________________
स्वोपज्ञलघुवृत्तिः [३३९] ब्रह्म-भ्रूण-वृत्रात् क्वि । ५। १ । १६१। ___ एभ्यः कर्मभ्यः पराद् भूतार्थाद्धन्तेः क्विा स्यात् । ब्रह्महा, भ्रूणहा, वृत्रहा ।। १६१॥ कृगः सु-पुण्य-पापकर्म-मन्त्र-पदात् । ५। १ ।१६२॥
सोः पुण्यादेश्व कर्मणः परात् भूतार्थात् कृगः क्विप् स्यात्। सुकृत् , पुण्यकृत् , पापकृत् , कर्मकृत् , मन्त्रकृत् , पदकृत् ॥ १६२॥
सोमात् सुगः । ५ । १ । १६३ ।। सोमायाप्यात् पराद् भूतार्थात् सुगः क्विा स्यात् । सोमसुत् ॥ १६३ ॥
अग्नेश्ः।५।१ । १६४ । अग्नाप्यात् पराद् भूतार्थात् चे क्विप् स्यात् । अग्निचित् ॥ १६४ ॥
कर्मण्यग्न्यर्थे । ५। १ । १६५। कर्मणः पराद् भूतार्थात् चेःकर्मण्यग्न्यर्थे क्विप् स्यात्। श्येनचित् ॥ १६५ ॥
दृशः कनिप् । ५। १ । १६६। व्याप्यात् पराद् भूतार्थाद् दृशेः क्वनिप् स्यात् । बहुश्वा ॥ १६६॥
सहराजभ्यां कृग्-युधेः। ५। १ । १६७।
आभ्यां कर्मभ्यां पराद् भूतार्थात् कुगो युधेश्च क्वनिप् स्यात् । सहकृत्वा, सहयुध्वा, राजकृत्वा, राजयुध्वा॥१६७॥