________________
हेमशब्दानुशासनस्य कर्तुर्णिन् | ५ | १ | १५३ ॥
कर्त्रर्थादुपमानात् पराद् धातोर्णिन् स्यात् । उष्ट्रकोशी ॥ १५३ ॥
अजातेः शीले । ५ । १ । १५४ ।
अजात्यर्थात नाम्नः पराच्छीलार्थार्द्धातोर्णिन् स्यात् । उष्णभोजी, प्रस्थायी । अजातेरिति किम् ? शालीन भोक्ता । शील इति किम् ? उष्ण भोजो मन्दः ॥ १५४ ॥ साधौ | ५ | १ | १५५
[ ३३८ ]
नाम्नः परात् साध्वर्थाद्धातोर्णिन् स्यात् । साधुकारी ॥ १५५ ॥
ब्रह्मणो वदः | ५ | १ | १५६ |
ब्रह्मणः पराद् वदेर्णिन् स्यात् । ब्रह्मवादी || १५६ ॥ assive | ५ | १ | १५७ |
अनयोर्गम्यमानयोर्नाम्नः पराद्धातोर्णिन् स्यात् । स्थ fuडलवर्त्ती, क्षीरपायिण उशीनराः ॥ १५७ ॥ करणाद जो भूते । ५ । १ । १५८ | करणार्थाद् नाम्नः पराद् भूतार्थात् यजेर्णिन् स्यात् । अग्निष्टोमयाजी ॥ १५८ ॥
निन्द्ये व्याप्यादिन विक्रियः । ५ । १ । १५९ । व्याप्याद् नाम्नः परात् भूतार्थाद् विक्रियः कुत्से कर्त्तरीन् स्यात् । सोमविक्रयी । निन्द्य इति किम् ? धान्य विक्रयः ॥ १५९ ॥
हनो णिन् । ५ । १ । १६० ।
व्याप्यात् पराद् भूतार्थाद् हन्तेर्निन्ये कर्त्तरि णिन् स्यात् । पितृघाती ॥ १६० ॥