________________
स्वोपज्ञलघुवृत्तिः
[ ३३५ ]
नाम्नः पराद् गमेः खड्डखाः स्युः, विहायसो विहश्च । तुरङ्गः, तुरगः । विहङ्गः, विहगः। तुरङ्गमः, विहङ्गमः, सुतङ्गमो मुनिः ॥ १३१ ॥
सुग- दुर्गमाऽऽधारे । ५ । १ । १३२ । सुदुर्भ्यां पराद् गमेराधारे डः स्यात् । सुगः, दुर्गः
पन्थाः ।। १३२ ।।
निर्गो देशे । ५ । १ । १३३ ।
निस्पूर्वाद् गमेराधारे देशे ङः
॥ १३३ ॥
स्यात् । निर्गो देशः
शमो नाम्नि अः | ५ | १ | १३४ | शमो नाम्नः पराद्धातोः संज्ञायामः स्यात् । शम्भवो ऽर्हन् । नाम्नीति किम् १ शङ्करी दीक्षा ॥ १३४ ॥ पार्श्वाssदिभ्यः शीङः | ५ | १ | १३५ | एभ्यो नामभ्यः परात् शीङः अः स्यात् । पार्श्वशयः
।। १३५ ।।
ऊर्ध्वाऽऽदिभ्यः कर्तुः । ५ । १ । १३६ । एभ्यः कर्तृवाचिभ्यः परात् शीङः अः स्यात् । ऊर्ध्वशयः, उत्तानशयः ।। १३६ ।।
आधारात् । ५ । १ । १३७ ।
आधारादू नाम्नः परात् शीङः अः स्यात् । स्वशयः ॥ १३७ ॥
चरेष्टः । ५ । १ । १३८ ।
आधारात् परात् चरेः टः स्यात् । कुरुचरी ॥ १३८ ॥ भिक्षा - सेनाऽऽदायात् । ५ । १ । १३९ ।