SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ [३३६] हेमशब्दानुशासनस्य एभ्यः परात् चरेष्टः स्यात्। भिक्षाचरी, सेनाचरः, आदायचरः ॥ १३९ ॥ पुरोऽग्रतोऽग्रे सर्तेः । ५। १ । १४०। एभ्यः परात् सर्तेष्टः स्यात् । पुरःसरी, अग्रतः सरः, अग्रेसरः ॥ १४०॥ पूर्वात् कर्तुः । ५। १ । १४१ । पूर्वात् कर्तृवृत्तेः परात् सर्तेष्टः स्यात् । पूर्वसरः। कर्तुरिति किम् ? पूर्वसारः ॥ १४१ ॥ स्थापा-स्ना-त्रः कः । ५। १ । १४२ । नाम्नः परेभ्य एभ्यः कः स्यात् । समस्थः, कच्छपः, नदीष्णः, धर्मत्रम् ॥ १३२ ॥ शोकापनुद-तुन्दपरिमृज-स्तम्बेरम-कर्णेजपं प्रियाऽ लस-हस्ति-सूचके। ५। १ । १४३ । एते यथासङ्ख्यं प्रियादिष्वर्थेषु कान्ता निपात्यन्ते । शोकापनुदः प्रियः, तुन्दपरिमृजोऽलसः, स्तम्बेरमो हस्ती, कर्णेजपोऽतिखलः। एध्विति किम् ? शोकापनोदो धर्माचार्यः ॥ १४३॥ मूलविभुजाऽऽदयः । ५। १ । १४४ । एते कान्ता यथादर्शनं निपात्यन्ते । मूलविभुजो रथः, कुमुदं कैरवम् ॥ १४४ ॥ दुहे डुघः। ५। १ । १४५। नाम्नः पराद् दुहेर्डघः स्यात् । कामदुघा ॥ १४५ ॥ भजो विण् ।४।१ । १४६ ।. १ डकारेत्त्वात् टेः (अन्त्यस्वरादेः) लोपः
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy