SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [३३३] एभ्यः कर्मभ्य धेः खश् स्यात् । शुनिन्धया, स्तनन्धयः, मुअन्धयः, कूलन्धयः, आस्यन्धयः, पुष्पन्धयः ।। नाडी-घटी-खरी-मुष्टि-नासिका-वाताद् ध्मश्च । ५।१ । १२० । एभ्यः कर्मभ्यः पराद् ध्मः धेश्च खा स्थात् । नाडिन्धमः नाडिन्धयः । घटिन्धमः, घटिन्धयः । खरिन्धमः, खरिन्धयः। मुष्टिन्धमा, मुष्टिन्धयः। नासिकन्धमः, नासिकन्धयः वातन्धमः, वातन्धयः ॥ १२० ॥ पाणि-करात् । ५। १ । १२१ । ___आभ्यां कर्मभ्यां परात् ध्मः खश् स्यात् । पाणिन्धमः करन्धमः ॥ १२१ ॥ कूलाद्-उद्रुजोदहः । ५। १ । १२२ । कूलात् कर्मणः पराभ्यामाभ्यां खश् स्यात् । कूलमुद्रुजः, कूलमुद्वहः ॥ १२२ ॥ वहाऽभ्रात् लिहः । ५ । १ । १२३ । आभ्यां कर्मभ्यां परात् लिहः खश् स्यात् । वहंलिहा, अभ्रंलिहः ॥ १२३ ॥ .. बहु-विध्वरुष-तिलात् तुदः।५।१ । १२४ । एभ्यः कर्मभ्यः परात् तुदेः खश् स्यात् । बहुन्तुदः, विधुन्तुदः, अरुन्तुदः, तिलन्तुदः ॥ १२४ ॥ ललाट चात-शात् तपाऽज-हाकः।५।१ । १२५। . एभ्यः कर्मभ्यः परेभ्यो यथासङ्ख्यं तपाऽजहाग्भ्यः खश् स्यात् । ललाटन्तपः, वातमजः शाहः ॥ १२५ ॥ असूर्योगाद् दृशः । ५। १ । १२६ ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy