SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ [३३२] हैमशब्दानुशासनस्य - कर्मणः परेभ्यः एभ्यः, सहेश्च संज्ञायां खः स्यात् । विश्वम्भरा भूः, पतिम्वरा कन्या, शत्रुञ्जयोऽद्रिः, रथन्तरं साम, शत्रुन्तपो राजा, बलिन्दमः कृष्णः, शर्बुसहो राजा । नाम्नीति किम् ? कुटुम्बभारः ॥ ११२॥ धारेधर्च । ५। १ । ११३ । कर्मणः पराद् धारेः संज्ञायां खः स्यात् , धारेश्व धर। वसुन्धरा भूः ।। ११३ ॥ पुरन्दर-भगन्दरौ । ५। १ । ११४ । एतौ संज्ञायां खान्तौ निपात्येते । पुरन्दरः शक्रः, भगन्दरो व्याधिः ॥ ११४ ॥ . . वाचंयमो व्रते । ५।१।११५। व्रते गम्यमाने वाचः कर्मणः पराद् यमे खो, वाचो ऽमन्तश्च स्यात् वाचंयमो व्रती ॥ १९५ ।। __ मन्यात् णिन् । ५ । १ । ११६ । कर्मणः पराद् मन्यतेर्णिन् स्यात् । पण्डितमानी बन्धोः ॥ ११६॥ कर्तुः खश् । ५ । १ । ११७ । प्रत्ययार्थात् कर्तुः कर्मणः पराद मन्यतेः खशू स्यात् । पण्डितम्मन्यः। कर्तुरिति किम् ? पटुमानी चैत्रस्य ॥ ११७ ॥ एजेः। ५ । १ । ११८। कर्मणः परादेजयतेः खश् स्यात्। अरिमेजयः॥११॥ शुनी-स्तन-मुज-कूलाऽऽस्य-पुष्पात दृधेः । ५ । १ । ११९ ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy