SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [३२९] . कर्मणः पराद् हृगो वयस्यनुद्यमे च गम्येऽच् स्यात् । अस्थिहरः श्वशिशुः । उद्यम उत्क्षेपणमाकाशे धारणं वा, तद्भावे । अंशहरो दायादः, मनोहरा माला । वयोऽनुद्यम इति किम् ? भारहारः ॥ ९५ ॥ .. आङः शीले । ५।१ । ९६ । कर्मणः परादावाद दृगेः शीले गम्येऽच् स्यात् । पुष्पाहरः । शील इति किम् ? पुष्पाहारः ॥ ९६ ॥ दृति-नाथात् पशौ इः । ५। १ । ९७ । आभ्यां कर्मभ्यां परात् हृगः पशो कर्तरि हः स्यात् । दृतिहरिः श्वा, नाथहरिः सिंहः ॥ ९७ ॥ __रजस्-फले-मलादु ग्रहः । ५ । १ । ९८। एभ्यः कर्मभ्यः पराद् ग्रहेरि स्यात्। रजोग्रहिः, फलेअहिः, मलग्रहिः ॥ ९८ ॥ - देव-वाताद् आपः। ५। १ । ९९ । आभ्यां कर्मभ्यां पराद् आपेरिः स्यात् । देवाऽऽपिः, वाताऽपिः ॥ ९९ ॥ शकृत्-स्तम्बाद वत्स-वीही कृगः । ५। १ । १००। आभ्यां कर्मभ्यां परात् कृगो यथासङ्ख्यं वत्सबीयोः कोरिः स्यात्। शकृत्करिवत्सः, स्तम्बकरिवीहिः ॥१०॥ किम्-यत्-तद्-बहोरः । ५। १ । १०१ । - एभ्यः कर्मभ्यः परात् कृगः अः स्यात् । किंकरा, यत्करा, तत्करा, बहुकरा ॥ १०१ ॥ . . . . . . .. १ पुंखि तु किंकरः, यत्कर इत्यादि
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy