________________
[३३०] हैमशब्दानुशासनस्य सङ्ख्याऽहर्दिवा-विभा-निशा-प्रभा-भास्-चित्रकर्तृआदि-अन्ताऽनन्त-कारबाह-अरुष्-धनुष-नान्दीलिपि-लिवि-बलि-भक्ति-क्षेत्र-जङ्घा-क्षपाक्षणदारजनि-दोषा-दिन-दिवसात् टः
।५।१ । १०२। सङ्रूयेत्यर्थप्रधानमपि एभ्यः कर्मभ्यः परात् कगः टः स्यात् । सङ्ख्याकरः, द्विकरः अहस्करः, दिवाकरः विभाकरः, निशाकरः, प्रभाकरः, भास्करः चित्रकरः, कर्तृकरः, आदिकरः, अन्तकरः अनन्तकरः, कारकरः, बाहुकरः, अरुष्करः, धनुष्करः, नान्दीकरः, लिपिकरः लिविकरः, बलिकरः, भक्तिकरः, क्षेत्रकरः, जवाकरः, क्षपाकरः, क्षणदाकर, रजनिकरः, दोपाकरः, दिनकरः, दिवसकरः।१०२। हेतु-तच्छीलाऽनुकूलेऽशब्द-श्लोक कलह-गाथा
वैर-चाटु-सूत्र-मन्त्र-पदात् । ५।१ । १०३ । एषु कर्तृषु शब्दादिवोत्कर्मणः परात्कृगःटःस्यात् । यशस्करी विद्या, श्राद्धकरः, प्रेषणकरः । शब्दादिनिषेधः किम् ? शब्दकार इत्यादि । १०३ ।।
भृतौ कर्मणः । ५। १ । १०४। कर्मशब्दात् कर्मणः परात् कृगो भृतौ गम्यायां टः स्यात् । कर्मकरी दासी ॥१०४॥
क्षेम-प्रिय-मद्र-भद्रात् खाऽण् ।५।१।१०५।। १ अनकूल आराध्यचित्तानुवर्ती-आज्ञापालक इत्यर्थः । ...
.