________________
[ ३२८ ]
हैमशब्दानुशासनस्य
राज्ञः कर्मणः पराद् हन्तेष्टक्, घाऽऽदेशच निपात्यते ।
राजघः ॥ ८८ ॥
पाणिघताडघौ शिल्पिनि । ५ | १ १८९ |
एतौ शिल्पिनि गन्तौ निपात्येते । पाणिघः, लाडघः शिल्पिनीति किम् ? पाणिघातः, ताडघातः ॥ ८९ ॥ कुक्ष्यात्मोदरात् भृगः खिः । ५ । १ । ९५
एभ्यः कर्मभ्यः पराद् भृगः स्विः स्यात् । कुक्षिम्भरिः आत्मम्भरिः, उदरम्भरिः ॥ ९० ॥
अर्होऽच् | ५ | १ | ९१ ।
कर्मणः पराद् अहेरच स्यात् । पूजा साध्वी ॥ ९१ ॥ धनुष्- दण्ड-सरु-लाङ्गलाऽद्· कुश ऋष्टि-यष्टि-शक्ति-तोमर-घटादुग्रहः । ५ । १ । ९२ ।
एभ्यः कर्मभ्यः पराद् ग्रहोऽच् स्यात् । धनुर्ग्रहः, दण्डग्रहः, त्सरुग्रहः, लाङ्गलग्रहः, अङ्कुशग्रहः, ऋष्टिग्रहः, यष्टिग्रहः, शक्तिग्रहः, तोमरग्रहः, घटग्रहः ॥ ९२ ॥ सूत्राद धारणे । ५ । १ । ९३ ।
सुत्रात् कर्मणः पराद् ग्रहो ग्रहणपूर्वक धारणार्थाद् अच् स्यात् । सूत्रग्रहः प्राज्ञः, सूत्रधारो वा । धारण इति किम् सूत्रग्राहः || ९३ ॥ आयुधाऽऽदिभ्यो गोदण्डादेः । ५ । १ । ९४ ।
दण्डादिकर्जाद् आयुधादेः कर्मणः पराद् धृगोऽनू स्यात् । धनुर्द्धरः, भूधरः । अदण्डादेरिति किम् ? दण्डधारः । कुण्डधारः ॥ ९४ ॥
हो वो नुद्यमे । ५ । १ । ९६ ।