________________
स्वोपज्ञलघुकृत्तिः [३२७] । क्लेशाऽऽदिभ्योऽपात् । ५ । १ । ८१ ।
क्लेशादिकर्मणः परादपाद् हन्तेः स्यात् । क्लेशापहः, तमोऽपहः ॥ ८१ ॥
- कुमार-शीर्षात् णिन् । ५। १ । ८२ ॥ - आम्यां कर्मभ्यां पराद् हन्तेर्णिन् स्यात् । कुमारघाती, शीर्षघाती ॥ ८२ ॥
___ अचित्ते टक् । ५। १ । ८३ । कर्मणः पराद् हन्तेरचित्तवति कर्तरि टक् स्यात् । वातघ्नं तैलम्। अचित्त इति किम् ? पापघातो यतिः॥८३॥
जाया-पतेश्चिह्नवति । ५। १ । ८४ । आभ्यां कर्मभ्यां पराद् हन्तेश्चिह्नवति कर्तरि टक् स्यात् । जायाघ्नो ब्राह्मणः, पतिघ्नी कन्या ॥ ८४ ॥
" ब्रह्माऽऽदिभ्यः । ५।१ । ८५। । - एभ्यः कर्मभ्यः पराद्धन्तेष्टक् स्यात् । ब्रह्मनः। गोघ्नः पापी ॥ ८५ ॥
हस्ति-बाह-कपाटात् शक्तौ । ५।१।८६ । 'एभ्यः कर्मभ्यः पराद् हन्तेः शक्ती गम्यायां टक् स्यात् । हस्तिनः, बाहुघ्ना, कपाटनः । शक्ताविति किम्? हस्तिघातो विपदः ॥ ८६ ॥
- नगराद् अगजे । ५। १ । ८७ । - नगरात् कर्मणः पराद्धन्तेरगजे कर्तरि टक् स्यात् । नगरघ्नो व्याघ्रः । अगज इति किम् ? नगरघातो हस्ती ॥ ८७॥
राजघः । ५।१।८८.