SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ [३२६] हैमशब्दानुशासनस्य - कर्मणः परेभ्यः एभ्यो णः स्यात् । धर्मशीला, धर्मकामा, वायुभक्षा, कल्याणाऽऽचारा । सुखप्रतीक्षा । बहुक्षमा ॥७३॥ गायोऽनुपसर्गात् टक् । ५। १ । ७४ । कर्मणः परादनुपसर्गाद् गायतेष्टक् स्यात् । वक्रगी अनुपसर्गादिति किम् ? खरुसंगायः ॥ ७४ ॥ सुरा-सीधाः पिवः । ५। १ । ७५ । आभ्यां कर्मभ्यां परादनुपसर्गात् पिषतेष्टक् स्यात् । सुरापी, सीधुपी ॥ ७५ ॥ आता डेोऽह्वाचा-मः । ५। १ । ७६ । कर्मणः परादनुपसर्गाद् हावामावर्जाद आदन्ताद्धातोर्डः स्यात् । गोदः । अहावाम इति किम् ? स्वर्गहायः, तन्तुवायः, धान्यमायः ॥ ७६ ॥ समः ख्यः । ५। १ । ७७। कर्मणः परात् संपूर्वात् रव्यो डः स्यात्। गोसङ्ख्यः ॥ ७७॥ दश्वाऽङः । ५। १ । ७८ । कर्मणः परादाङ्पूर्वाद दागः ख्यश्च डः स्यात् । दायादः। स्त्र्याख्यः ॥ ७८॥ प्राद् ज्ञश्च । ५। १ । ७९ । कर्मणः परात् प्रपूर्वाद् ज्ञो दागश्च डः स्यात् । पथिप्रज्ञः, प्रपाप्रदः ॥ ७९ ॥ .. .. आशिषि हनः। ५। १ । ८०॥ कर्मणः परात् हन्तेराशिषि डः स्यात्। शत्रुहः ॥८०॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy