SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [३१९] चार्थे । प्रणाय्यः शिष्यश्चौरो वा ॥ २३ ॥ धाय्या-पाय्य-सान्नाय्य-निकाय्यम् ऋक्-मान-हवि. -निवासे । ५। १ । २४ । एते ऋगादिषु यथासङ्ख्यं ध्यणन्ता निपात्यन्ते । धाग्या ऋक्, पाय्यं मानम्, सान्नाय्यं हविः, निकाय्यो निवासः ॥२४॥ परिचाय्योपचाय्याऽऽनाय्य-समूह्य-चित्यमग्नौ ।५।१ । २५ । एतेऽनौ निपात्यन्ते । परिचाय्यः, उपचाय्या, आनाय्यः, समूह्यः, चित्यो वाऽग्निः ॥ २५ ॥ याज्या दानर्चि। ५। १ । २६ । यजेः करणदानर्चि ध्यण् स्यात् । योज्या ॥२६॥ तव्याऽनीयौ। ५। १ । २७ । एतौ धातोः स्याताम् । कर्त्तव्यः, करणीयः ॥ २७ ॥ ... य एत् चाऽऽतः। ५।१ । २८ । स्वरान्ताद् धातोर्यः स्यात् , आत एच्च । चेयम् , नेयम् , देयम्, धेयम् ॥ २८॥ शकि-तकि-चति-यति-शसि सहि-याज-भजि पवर्गात् । ५ । १ । २९ । एभ्यः पवर्गान्ताच यः स्यात् । शक्यम् , तक्यम् , १ पत्र "क्तेऽनिटश्चजोः कगौ धिति" इति प्राप्तस्य गकारस्य "त्यज्यज्प्रवचः" (४-१-११८) इति सूत्रेण बाघो भवति ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy