________________
[३१८] हैमशब्दानुशासनस्य
ऋवर्ण-व्यञ्जनाद् घ्यण् । ५ । १।१७।
ऋवर्णान्ताद् व्यञ्जनान्ताच धातोय॑ण् स्यात्। कार्यम् , पाक्यम् ॥ १७ ॥
पाणि-समवाभ्यां सृजः । ५।१।१८।
आभ्यां परात् सृजेय॑ण् स्यात् । पाणिसा , समव: सो रज्जुः ॥१८॥
उवर्णादावश्यके । ५। १ । १९।। अवश्यम्भावे द्योत्ये धातोरुवर्णान्ताद् घ्यण स्यात् । लाव्यम्, अवश्यपाव्यम् ॥ १९ ॥ 'आसु-युचपि-रपि-लपि-त्रपि-डिपि-दभि-चम्यानमः ।
।५।१। २०। . आपूर्वाभ्यां सुग्नम्भ्यां यौत्यादेश्व ध्यण् स्यात् । आसाव्यम् , याव्यम् , वाप्यम्, राप्यम्, लाप्यम् , अपत्रा. प्यम् , डेप्यम्, दाभ्यम्, आचाम्यम्, आनाम्यम् ॥२०॥
वाऽऽधारेऽमावस्या । ५। १ । २१ । अमापूर्वाद् वसतेराधारे ध्यण, धातोर्वा हृस्वश्व निपात्यते । अमावस्या, अमावास्या ॥ २१ ॥
संचाय्य-कुण्डपाय्य-राजसूयं क्रतो ।५।१।२२।
एते ऋतावर्थे ध्यणन्ता निपात्यन्ते। संचारयः, कुण्डपाय्यः, राजसूयः क्रतुः ॥२२॥
प्रणाय्यो निष्कामाऽसंमते । ५। १ ॥२३॥ प्रात् नियो ध्यण्-आयादेशौ स्याता, निष्कामेऽसंमते
१ आसु इति आपूर्वः सुनोतेः, आनम इति आनमेर्धातोर्ग्रहणम् । आसाव्यम् , आनाम्यमित्यनयोरुदाहरणे स्तः। दभि बन्धने सौत्रो थातुर्गायः । न तु स्वादिकः तौदादिको वा।