________________
खोपज्ञलघुवृत्तिः [३१७] | गत्यर्थाऽकर्मक-पिव-भुजेः।५।१।११ ।
भूतादौ यः क्तो विहितः स एभ्यः कर्तरि वा स्यात्। गतोऽसौ ग्रामम् , गतोऽसौ तैः । आसितोऽसौ, आसितं तः। पीताः पयः, पीतं पयः। भुक्तास्ते, इदं तैर्भुक्तम् ॥११॥ . अद्यर्थात् चाऽऽधारे । ५। १ । १२ ।
आहारार्थात् धातोर्गत्यर्थादेव यः क्तः स आधारे वा स्यात् । इदमेषां जग्धम् , तैर्जग्धम् । इदं तेषां यातम् , तैर्यातम् । इदमेषां शयितम्, तैः शयितम् । इदं गवां पीतम्, गोभिः पीतम् । इदं तेषां भुक्तम् , तैर्भुक्तम् ॥ १२ ॥
क्वान्तुम्-अम् भावे । ५। १ । १३ । एते धात्वर्थमात्रे स्युः। कृत्वा, कर्तुम् , कारंकारं याति
भीमादयोऽपादाने । ५। १ । १४ । एतेऽपादाने स्युः । भीमः, भयानकः ॥ १४ ॥ . संप्रदानात् चाऽन्यत्रोणादयः । ५। १ । १५/
संप्रदानादपादानात् चान्यत्रार्थे उणादयः स्युः। कारुः, कषिः ॥१५॥ .' असरूपोऽपवादे वोत्सर्गः प्राक क्तेः ।५।१।१६।
इतः सूत्रादारभ्य "स्त्रियां क्ति" (५-३-९१) इत्यतः प्राक् योऽपवादः, तद्विषयेऽपवादेनाऽसमानरूप औत्सर्गिकः प्रत्ययो वा स्यात् । अवश्यलाव्यम् , अवश्यलवितव्यम् । असरूप इति किम् ? घ्यणि यो न स्यात् । कार्यम् । प्राक्तेरिति किम् ? कतिः, चिकीर्षा ॥ १६ ॥
१ पक्षे कर्मणि कर्तरि भावे च भवति ।