________________
[३१६] हैमशब्दानुशासनस्य
रुच्याऽव्यथ्य-वास्तव्यम् । ५ । १। ६ । एते कर्तरि निपात्यन्ते । रुच्यः, अव्यथ्यः, वास्तव्यः॥६॥ . भव्य-गेय-जन्यरम्याऽऽपात्याऽऽप्लाव्यं
नवा । ५। १ । ७। एते कर्तरि वा निपात्यन्ते । भव्यः, गेयः सानाम्, जन्यः, रम्यः, आपात्यः, आप्लाव्या पेक्षे, भव्यम्, गेयानि, सामानि, जन्यम्, रम्यम्, आपात्यम्, आप्लाव्यम् ॥७॥
प्रवचनीयाऽऽदयः।५।१।। एते. अनीयप्रत्ययान्ताः कर्तरि वा निपात्यन्ते । प्रवचनीयो गुरुः शास्त्रस्य, प्रवचनीयं गुरुणा शास्त्रम्, उपस्थानीयः शिष्यो गुरोः, उपस्थानीयः शिष्येण गुरुः ॥८॥ श्लिष-शी.-स्थाऽऽसचस-जनरुह-जू-भजेः
क्तः । ५। १ । ९। एभ्यः क्तो यो विहितः, स कर्तरि वा स्यात् । आश्लिछः कान्तां चैत्रः, आश्लिष्टा कान्ता चैत्रेण । अतिशयितो गुरुं शिष्यः, अतिशयितो गुरुः शिष्यैः । उपस्थितो गुरुं शिष्या उपस्थितोगुरु शिष्यैः । उपासिता गुरुं ते, उपासितो गुरुस्तैः। अनूपिता गुरुं ते, अनूषितो गुरुस्तैः । अनुजातास्तां ते, अनुजाता सातैः। आरूढोऽश्वं सः, आरूढोऽश्वस्तैः । अनुजीर्णास्तां ते, अनुजीर्णा सा तैः। विभक्ता स्वं ते, विभक्तं स्वं तैः ॥९॥
आरम्भे ।५।१ । १०। आरम्भार्थाद् धातो तादौ या तो विहितः, स कर्तरि वा स्यात् । प्रकृताः कटं ते । प्रकृतः कटस्तैः ॥ १० ॥ .
१ पक्षे भावकर्मणोः स्यात् कर्तरि वा विधानार्थमिदं सूत्रम् । २ शानं दर्शनं वाऽऽणोतीति ज्ञानावरणीयं दर्शनावरणीयमित्यायपि ।