________________
॥अथ पञ्चमाध्यायस्य प्रथमः पादः ॥
(कृत्प्रकरणम् )
आ तुमोऽत्यादिः कृत् । ५ । १ । १ । धातोर्विधीयमानस्त्यादिवों वक्ष्यमाणः प्रत्ययस्तुमभिव्याप्य कृत् स्यात् । घनघात्यः । अत्याविरिति किम् ? प्रणिस्ते ॥ १॥
बहुलम् । ५ । १।२। कृन्निर्दिष्टादाद् अन्यत्रापि बहुलं स्यात्। पोदहारकः, मोहनीयं कर्म, संप्रदानम् ॥ २॥
कर्तरि । ५। १।३। कृवर्थविशेषोक्तिं विना कर्तरि स्यात् । कर्ता ॥ ३ ॥ .. व्याप्ये घुर-केलिम-कृष्टपच्यम् । ५। १।४ ।
घुरकेलिमो प्रत्ययौ कृष्टपच्यश्च व्याप्ये कर्तरि स्युः । भङ्गरं काष्ठम्, पचेलिमा माषाः कृष्टपच्याः शालयः॥४॥
... संगतेऽजर्यम् । ५ । १ । ५। ___ संगमनं संगतम् । तस्मिन् कर्तरि नपूर्वात् जृपो यो निपात्यते। अजय आर्यसंगतम् । संगत इति किम् ? अजरः पटः ॥५॥
१ पादाभ्यां ह्रियते इति पादहारकः । मुह्यत्यनेनेति मोहनीयं, करणेऽनीयः। अनेनैव नियमेन " येन प्रणम्रौ त्वत्पादौ " इति श्री यशोवि० कृतशमीनपार्श्वस्तोत्रप्रयोगस्य कर्मणि वर्तमानेऽपि. रः प्रत्ययः सिध्यति । एवं कम्रादिष्वपि ।