________________
[३२०] हैमशब्दानुशासनस्य चत्यम् यत्यम् , शस्यम्, सह्यम्, यज्यम्, भज्यम्, तप्यम्, गम्यम् ॥ २९ ॥
यमि-मदि-गदोऽनुपसर्गात् । ५। १ । ३० । एभ्योऽनुपसर्गेभ्यो या स्यात् । यम्यम्, मद्यम् ,गद्यम् । अनुपसर्गादिति किम् ? आयाम्यम् ॥ ३० ॥ ..
चरेः, आड.स्त्वगुरौ ।५।१ । ३१ । अनुपसर्गात् चरेः आपूर्वात् तु अगुरौ य: स्यात् । चर्यः, आचर्यो देशः। अगुराविति किम् ? आचार्यः ॥३१॥ वर्योपसर्याऽवद्य-पण्यमुपेय-ऋतुमती-गी
विक्रये । ५।१ । ३२ । एते उपेयादिषु यथासङ्ख्यं यान्ता निपात्यन्ते । वर्या कन्या, उपसर्या गौः, अवयं गद्यम्, पण्या गौः ।। ३२ ॥
स्वामिवैश्ययः। ५। १ । ३३।। अतः स्वामिवैश्ययोर्यः स्यात् । अर्यः स्वामी वैश्यो वा । आर्योऽन्यः ॥ ३३॥
वयं करणे । ५ | १ । ३४ । वहेः करणे यः स्यात् । वा शकटम् ।। ३४ ।।
नाम्नो वदः क्यप् च । ५ । १ । ३५ ।
अनुपसर्गान्नाम्नः पराद् यादेः क्यप्यो स्याताम् । ब्रह्मोद्यम्, ब्रह्मवद्यम् । नाम्न इति किम् ? वाद्यम् । अनुपसर्गादित्येव ? प्रवाद्यम् ॥ ३५॥
हत्या भूयं भावे । ५। १ । ३६ । अनुपसर्गाद् नाम्नः परौ हत्याभूयो भावे क्यवन्तौ