________________
[३११]
स्वोपज्ञलघुवृत्तिः
रथ इटि तु परोक्षायामेव । ४ । ४ । १०१ ।
रधः स्वरात् परः स्वरादौ प्रत्यये नोऽन्तः स्यात्, हडादौ तु परोक्षायामेव । रन्धः, ररन्धिव । परोक्षायामेवेति किम् ? रधिता ॥ १०१ ॥
trisपरोक्षा शवि । ४ । ४ । १०२ |
रमेः स्वरात् परः परोक्षाशन्वर्जे स्वरादौ प्रत्यये न् अन्तः स्यात् । आरम्भः अपरोक्षाशवीति किम् ? आरेमे, आरभते ॥ १०२ ॥
लभः । ४ । ४ । १०३ |
लभः स्वरात् परः परोक्षाशव्वर्जे स्वरादौ प्रत्यये न् अन्तः स्यात् । लम्भकः ।। १०३ ।।
आङो यि । ४ । ४ । १०४ ।
आङः परस्य लभः'स्वरात् परो यादौ प्रत्यये न् अन्तः स्यात् । आलम्भ्या गौः । यीति किम् ? आलब्धाः ॥१०४॥ उपात् स्तुतौ । ४ । ४ । १०५ |
उपात् परस्य लभः स्वरात् परो यादौ प्रत्यये स्तुतौ गम्यायां न् अन्तः स्यात् । उपलम्भ्या विद्या । स्तुताविति किम् ? उपलभ्या वार्त्ता ॥ १०५ ॥
त्रि ख्णमोर्वा । ४ । ४ । १०६ ।
औौ रूणमि च लभः स्वरात् परो न् अन्तो वा स्यात् । अलाभि, अलम्भि । लम्भं लम्भम्, लाभ लाभम् ॥१०६ ॥ उपसर्गात् खल्घञोश्च । ४ । ४ । १०७ । उपसर्गाद् लभः, स्वरात् परः स्वल्घत्रोर्निरुणमोश्च