________________
[३१०] हैमशब्दानुशासनस्य यथासङ्ख्यं हृष्टेऽन्नार्थिनि आश्रयार्थिनि त्सडादिः स्यात् । अपस्किरते गौहृष्टः, कुक्कुटो भक्ष्यार्थी, आश्रयार्थी वा श्वा ॥ ९५ ॥
वौ विष्किरो वा । ४ । ४ । ९६ । पक्षिणि वाच्ये विकिरतेः स्सड् वाऽऽदिः स्यात् । विष्किरः, विकिरो वा पक्षी ॥ ९६ ॥ .. प्रात् तुम्पतेर्गवि । ४ । ४ । ९७।
प्रात् तुम्पतेर्गवि कर्तरि स्सडादिः स्यात् । प्रस्तुम्पति गौः । गवीति किम् ? प्रतुम्पति तरुः ॥ ९७ ॥
उदितः स्वराद् नोऽन्तः । ४ । ४ । ९८ । . उदितो धातोः स्वरात् परोन अन्तः स्यात् । नन्दति, कुण्डा ।। ९८॥
'मुचादि-तृफ-टफ गुफ शुभोभः शे।४।४।९९/
एषां शे परे स्वराद् नोऽन्तः स्यात् । मुञ्चति, पिंशति, तृम्फति, दृम्फति, गुम्फति, शुम्भति, उम्भति॥१९॥
जभः स्वरे। ४ । ४ । १००। जमेः स्वरात् परः स्वरादी प्रत्यये नोऽन्तः स्यात् । जम्भः ॥१०० ॥
१ विः पक्षी, तत्र । शकुन्तिः शकुनिश्चेिति धनञ्जयः।
२ एवे तौदादिकाः सन्ति । " तुदादेः शः” (३-४-८१) इत्यस्मिन् शे परे मुचादीनां स्वरात् नोऽन्तः स्यात् । तृफादीनां नोऽन्तविधानसामर्थात्शे परे नस्य लुग न भवति, तृम्फादीनां तु नोऽन्तविधानाऽभावाद् लुग् भवति । तेन नळुाके तृफति, दृफति, उभतीत्यादीनि रूपाणि स्युः । सनकारां, अनकारा एते पृथगेव धातवः सन्तीति ।