________________
(३०८] हैमशब्दानुशासनस्य
धू-सुस्तोः परस्मै । ४।४।८५। एभ्यः परस्मैपदे सिच आदिरिट् स्यात् । अधावीत् , असावीत्, अस्तावीत् । परस्मै इति किम् ? अघोष्ट
॥८५।
यमि-रमि-नम्यातः सोऽन्तश्व । ४ । ४ । ८६ । . '
एभ्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट्स्यात्। एषां च म अन्तः । अयंसीत्, व्यरंसीत् , अनंसीत् , अयासिष्टाम् ॥ ८६ ॥
ईशीडः से-वे-स्व-ध्वमोः । ४ । ४ । ८७ । __ आभ्यां वर्तमानासेध्वयोः; पञ्चमीस्वध्वमोश्चादिरिद् स्यात् । ईशिषे, ईशिध्ये, ईशिष्व, ईशिध्वम्, ईडिओ, ईडिवे, ईडिप्व, ईडिध्वम् ।। ८७ ॥ .
रुत्पञ्चकात् शिदयः । ४ । ४ । ८८ । रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितोऽयादेशादिरिट स्यात् । रोदिषि, स्वपिपि, प्राणिति, श्वसिति, जक्षिति । अपिति किन ? रुद्यात् । शित इति किम् ? रोत्स्यति, स्नप्स्यति ॥ ८८॥
दि-स्योरीटू । ४ । ४ । ८९ । रुत्पञ्चकात् दिस्योः शितोरादिरीट् स्यात् । अरोदीत्, अरोदीः ॥ ८९॥
अदश्वाऽट् । ४ । ४ । ९० । अत्ते रुत्पञ्चकाच दिस्योः शितोरादिरट् स्यात् । आदद , आदः, अरोदत् , अरोदः ॥ ९ ॥
१ "सिचि परस्मैः" (४-३-४४) सूचात् वृद्धिः।