________________
-
स्वोपज्ञलघुवृत्तिः [३०७] | ऋ-वृ-व्येऽद इट् । ४ । ४ । ८० । एभ्यः परस्य थव आदिरिट् स्यात् । आरिथ, ववरिथ, संविव्यायथ, आदिथ ॥ ८॥ स्कृ असू-च-भृ-स्तु-द्रु-श्रु-स्रोळजनादेः परोक्षायाः
।४।४। ८१ । 'स्कृगः नादिवर्जेभ्यश्च सर्वधातुभ्यः परस्याः परोक्षायाः व्यञ्जनादेरिट् स्यात् । संचस्करिव, ददिव चिच्यिवहे । स्क्रिति किम् ? चकृव । नादिवर्जनं किम् ? समृव, ववृव, ववृवहे, बभर्थ, तुष्टोथ, दुद्रोथ, शुश्रोथ, सुस्रोथ ॥८१॥
. घसेकस्वराऽऽतः कसोः। ४।४। ८२।
घसेरेकस्वराद् आदन्ताच धातोः परस्य कसोः परो. क्षाया आदिरिट् स्यात् । जक्षिवान् , आदिवान् , ययिवान् । परोक्षाया इत्येव ? विद्वान् ॥ ८२ ॥
गम-हन-विदुल-विश-दृशो वा । ४।४।८३। - एभ्यः परस्य क्वसोरादिरिटू वा स्यात् । जग्मिवान् , जगन्वान् । जनिवान् , जघन्वान् । विविदिवान् , वि. विद्वान् । विविशिवान् , विविश्वान् । दशिवान् । दहश्वान् ॥ ८३॥
सिचोऽजेः। ४ । ४ । ८४ । अजेः सिच आदिरिट् स्यात् । आजीत् ।। ८४ ॥
१ सस्पटः कृगो धातोरिद् भवति, स्सट्शून्यस्य तु नेत्यर्थः । स्सट तु "संपरेः कृगः स्सट्" (४-४-९१) इति सूत्रेण भवति । '' स्कृ-ऋच्छृतोः " (४-३-८) सूत्रेण संचस्करिव इत्यत्र गुणः । “ इन्ध्यसंयोगात्..." सूत्रात् किद्वत्त्वाद् ददिय चिच्यिवहे इत्यादिषु आतो लक् गुणाऽभावध।