SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ [ ३०६ ] हैमशब्दानुशासनस्य त्वरितः, त्वरितवान् । संघुष्टौ संघुषितौ दम्यौ । संघुष्टवान् संघुषितवान् | आस्वान्तः, आस्वनितः । आस्वान्तवान्, आस्वनितवान् | अभ्यान्तः, अभ्यान्तवान् | अभ्यमितः, अभ्यमितवान् ॥ ७५ ॥ हृषेः केश-लोम-विस्मय-प्रतिघाते । ४ । ४ । ७६ । हृषेः केशाद्यर्थेषु क्तयोरादिरिट् वा न स्यात् । हृष्टाः, हृषिताः केशाः । हृष्टं, हृषितं लोमभिः । हृष्टो, हृषितचैत्रः । हृष्टाः, हृषिता दन्ताः ॥ ७६ ॥ अपचितः । ४ । ४ । ७७ । अपात् चायेः क्तान्तस्य इडभावः, चिश्च निपात्यते वा । अपचितः, अपचायितः ॥ ७७ ॥ · · सृजि - दृशि - स्- स्वरात्वतः तृनित्याऽनिटस्थवः । ४ । ४ । ७८ । सृजिदृशिभ्यां स्कृगः स्वरान्तादत्वतश्च तृचि नित्यानिटो विहितस्य थव आदिरिट् वा न स्यात् । सस्रष्ठ, ससर्जिथ । दद्रष्ट, ददर्शिथ । सञ्चस्कर्थ, सञ्चस्करिथ । ययाथ, ययिथ । पपक्थ, पेचिथ । तृनित्यानिट इति किम् ? ररन्धिथ, शिश्रयिथ । विहितविशेषणं किम् ? चकर्षिथ ॥ ७८ ॥ ऋतः । ४ । ४ । ७९ । ऋदन्तात् तृनित्यानिटो विहितस्य थव आदिरिद् न स्यात् । जहर्थ । तृनित्यानिट् इत्येव १ सस्वरिथ ॥ ७९ ॥ १ अभि-आङ्पूर्वोऽम्, अभिपूर्वश्चाऽम् इत्युदाहरणयुगलम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy