SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः ग्रह-गुहश्च सनः । ४।४ । ५९ । आभ्यामुवर्णान्ताच विहितस्य सन आविरिट न स्यात् । जिघृक्षति, जुघुक्षति, रुरुषति ॥ ५९ ॥ स्वार्थे । ४ । ४ । ६०। स्वार्थार्थस्य सन आदिरिट् न स्यात् । जुगुप्सते॥६०॥ डीय-व्यैदितः क्तयोः । ४ । ४ । ६१ । डीयतेः श्वेरैदियश्च धातुभ्यः परयोः क्तक्तवत्वोरादिरिट् न स्यात् । डीनः, डीनवान् , शूनः शूनवान् , त्रस्तः, त्रस्तवान् ॥ ६१ ॥ वेटोऽपतः । ४ । ४ । ६२ । अपतो विकल्पितेटो धातोरेकस्वरात् परयोः क्तयोरादिरिट न स्यात् । रद्धः, रद्धवान् । अपत इति किम् ? पतितः ॥ ६२ ॥ . सं-नि-वेरर्दः । ४ । ४ । ६३ । एभ्यः पराद् अर्दैः परयोः क्तयोरादिरिट् न स्यात् । समपर्णः, समर्णवान् , न्यर्णः, न्यर्णवान् , व्यर्णः, व्यर्णवान् । संनिवेरिति किम् ? अर्दितः ॥ ६३ ॥ अविदूरेऽभेः । ४ । ४ । ६४ । अमेः पराद् अः परयोः क्तयोरविदूरेऽर्थे आदिरिट् न स्यात् । अभ्यर्णः, अभ्यर्णवान् । अविदूर इति किम् ? अभ्यर्दितो दीनः शीतेन ॥ ६४ ॥ १ क्तक्तवत्वोरित्यर्थः, एवमन्यत्राऽपि द्विवचनप्रयोगे बोध्यम् । डीङः सूयत्यादित्वात् , श्वयतेश्च ओदित्त्वात् "सूयत्याद्योदितः' (४-२-७०) सूत्रात् तस्य नः। सैन् भये इत्येदिद्धातोः 'त्रस्तः" इत्यादि स्यात् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy