________________
[३०४] हैमशब्दानुशासनस्य
वृतेर्वृत्तं ग्रन्थे । ४ । ४ । ६५ । वृतेर्ण्यन्तात् क्ते वृत्तं ग्रन्थविषये निपात्यते । वृत्तो गुणइछात्रेण । ग्रन्थ इति किम् ? वार्ततं कुङ्कुमम् ॥६५॥
धृष-शसः प्रगल्मे । ४ । ४ । ६६ । आभ्यां परयोः क्तयोरादिः प्रगल्भ एवार्थ इट न स्यात् । धृष्ठः, विशस्तः । प्रगल्भ इति किम् ? धर्षितः, विशसितः॥ ६६ ॥
कषः कृच्छ्रगहने । ४ । ४ । ६७ । अनयोरर्थयोः कषेः परयोः क्तयोरादिरिट् न स्यात् । कष्टं दुःखम्, कष्टोऽग्निः, कष्टं वनं दुरवगाहम् । कृच्छ. गहन इति किम् ? कषितं स्वर्णम् ॥ ६७ ॥ .. .. घुषेरविशब्दे । ४ । ४ । ६८ ।
अविशब्दार्थाद् घुसेः परयोः क्तयोरादिरिट् न स्यात् । घुष्टा रज्जुः, घुष्टवान् । अविशब्द इति किम् ? अवघुषितं वाक्यम् ॥ ६८ ॥
बलिस्थूले दृढः । ४।४। ६९।। बलिनि स्थूले चार्थे हे हेर्वा क्तान्तस्य दृढो निपात्यते । दृढः । बलिस्थूल इति किम् ? दृहितम् , इंहितम् ॥ ६९॥
क्षुब्ध-विरिब्ध-स्वान्त-ध्वान्त लग्न-म्लिष्ट फाण्टबाढ-परिवृद्ध मन्थ-स्वर-मनसू-तमस्-सत्ताऽस्पष्टाऽ
नायास-भृश-प्रभौ । ४।४।७। एते क्तान्ता मन्थादिष्वर्थेषु यथासङ्ख्यमनिटो निपात्यन्ते । क्षुब्धः समुद्रः, क्षुब्धं वल्लवैः, विरिब्धः स्वरः,