SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ [ ३०२ ] हैमशब्दानुशासनस्य स्यात् । प्रस्नविष्यति । अनात्मन इत्येव । प्रास्नोष्ट ॥५२॥ क्रमः । ४ । ४ । ५३ । क्रमः परस्य स्ताद्यशित आदिरिट् स्यात्, अनात्मनेपदे । क्रमिष्यति, प्रक्रमितुम् । अनात्मन इत्येव ? प्रस्यते 11-43 11 'तुः । ४ । ४ । ५४ । अनात्मनेपद विषयात् क्रमः परस्य तुस्ताद्यशित आदिरिट् स्यात् । क्रमिता । अनात्मन इत्येव ? प्रक्रन्ता ||५४ || न वृद्भयः । ४ । ४ । ५५ । वृदादिपञ्चकात् परस्य स्ताद्यशित आदिरिट्न स्यात्, नचेदसावात्मनेपदनिमित्तम् । वत्र्त्स्यति, विवृत्सति, स्यन्त्यस्यति, सिस्यन्त्सति ॥ ५५ ॥ एकस्वरादनुस्वारेतः । ४ । ४ । ५६ । एकस्वरादनुस्वारेतो धातोविहितस्य स्ताद्यशित आदिरिट् न स्यात् । पाता । एकस्वरादिति किम् ? अवधीत् ॥५६॥ ऋवर्ण- श्रि-ऊर्णुः कितः । ४ । ४ । ५७ । ऋवर्णान्ताद् धातोः श्रेरुपर्णोश्च एकस्वराट् विहितस्य कित आदिरिट् न स्यात् । वृतः, तीर्त्वा, श्रितः, ऊर्णुत्वा । एकस्वरादित्येव ? जागरितः । कित इति किम् ? वरिता ॥५७॥ उवर्णात् । ४ । ४ । ५८ । वर्णान्तादेकस्वराद् विहितस्य कित आदिरिट् न स्यात् । युतः, लूनः । कित इत्येव ? यविता लविता ||१८|| १ तृचः, तृनश्च प्रत्ययादादिरिद् स्याद् । २ अत्र क्तप्रत्ययः " ऋल्वादेरेषां तोनोऽग्रः ( ४ - २ - ६८ ) सूत्राद् नः
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy