________________
स्वोपज्ञलघुवृत्तिः [३०१] युयूषति, यियविषति । प्रोणुनूपति, प्रोणुनविपति । बुभूति, विभरिषति । ज्ञीप्सति, जिज्ञपयिषति । सिपासति, सिसनिषति । तितंसति, तितनिषति । पित्सति, पिपतिषति । प्रावुर्षति, प्रविवरिषति । वुवर्षते, विवरीपते । तितर्षति, तितरीपति । दिदरिद्रासति, दिदरिद्रिषति ॥ ४७ ॥ ऋ-स्मि-पूड्-अञ्ज-शो-कृ-गृ-दृ-धृ-प्रच्छः।४।४।४८। ___ एभ्यः परस्य सन आदिरिट् स्यात् । अरिरिषति, सिस्मयिषति, पिपविषते, अञ्जिजिषति, अशिशिषते, चिकरीपति, जिगरीपति, आदिदरिषते, आदिधरिषते, पिच्छिषति ॥४८॥
हनृतः स्यस्य । ४।४ । ४९। __ हन्तेः ऋदन्ताच परस्य स्यस्याऽऽदिरिट् स्यात् । हनिष्यति, करिष्यति ॥४९॥ कृत-चूत-नृत-च्छ्रदत्तृदोऽसिचः सादेर्वा । ४।४।५०। ... एभ्यः परस्यासिचः सादेस्ताद्यशित आदिरिट् वा स्यात् । कर्त्यति, कर्तिष्यति । चिनृत्सति, चिचतिषति । नय॑ति, नतिष्यति । अच्छय॑त्, अच्छर्दिष्यत् । तितत्सति,तितर्दिषति । असिच इति किम् ? अकर्तीत् ॥५०॥
गमोऽनात्मने । ४ । ४ । ५१ । गमः परस्य स्ताशितः सादेरिट् स्यात् , नत्वात्मनेपदे । गमिष्यति । अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् ? संगसीष्ट ॥५१॥
स्नोः । ४।४। ५२ । स्नोः परस्य स्तायशितः अनात्मनेपदे आदिरिद