SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [२९९] धूगौदितः । ४।४।३८ । धूग औदितश्च परस्य स्ताशित आदिरिद् वा स्यात् । धोता, धविता । रद्धा, रधिता ॥ ३८॥ निष्कुषः । ४ । ४ । ३९ । निष्पूर्वात् कुषः परस्य स्ताद्यशित आदिरिट् वा स्यात् । निष्कोष्टा, निष्कोषिता ॥ ३९ ॥ क्तयोः ।४।४।४०। निष्कुषः परयोः क्तयोरादिरिट नित्यं स्यात् । निष्कुषितः, निष्कुषितवान् ॥ ४० ॥ ज-व्रश्चः क्त्वः । ४ । ४ । ४१ । आभ्यां परस्य क्त्व आदिरिट् स्यात् । जरीत्वा, व्रश्चित्वा ॥४१॥ ___ उदितो वा । ४ । ४ । ४२ । ऊदितः परस्य क्त्व आदिरिट् वा स्यात्। दान्त्वा, दमित्वा ॥ ४२ ॥ क्षुध-चसस्तेषाम् । ४ । ४ । ४३ । आभ्यां परेषां क्तक्तवतुक्त्वामादिरिट् स्यात् । क्षुधिता, क्षुधितवान्, क्षुधित्वा, उषितः, उषितवान् , उषित्वा ॥ ४३॥ लुभ्यञ्चविमोहाऽर्चे । ४ । ४ । ४४ ।। आभ्यां यथासंख्यं विमोहनपूजार्थाभ्यां परेषां क्तक्तवतुक्त्वामादिरिट् स्यात् । विलुभितः, विलुभितवान् , लुभित्वा, अश्चितः, आश्चितवान् , अश्चित्वा। विमोहार्च इति किम् ? लुब्धो जाल्मः, उदक्तं जलम् ॥ ४४ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy