________________
[२९४] हेमशम्दानुशासनस्य
तेहादिभ्यः । ४ । ४ । ३३ । एभ्य एव परस्य स्ताशितः तेरादिरिद स्यात् । निगृहीतिः, अपस्निहितिः । ग्रहादिभ्य इति किम् ? शान्तिः ॥ ३३ ॥
गृह्णोऽपरोक्षायां दीर्घः । ४ । ४।३४ । अहेर्यो विहित इट्, तस्य दीर्घः स्यात् , न तु परोक्षा याम् । ग्रहीता। अपरोक्षायामिति किम् ? जगृहिक ॥ ३४॥ कृतो नवाऽनाशीः-सिच्परस्मै च । ४ । ४ । ३५।
वृभ्यामृदन्तेभ्यश्च परस्पेटो दीर्घो वा स्यात् , नतु परोंक्षाऽऽशिषोः, सिचि च परस्मैपदे । प्रावरीता, प्रावरिता। वरीता, वरिता । तितरीपति, तितरिषति । परोक्षाऽऽदिवर्जनं किम् ? ववरिथ, तेरिथ, प्रावरिषीष्ट, आस्तरिषीष्ट, प्रावारिषुः, आस्तारिषुः ॥ ३५ ॥
इद सिजाशिषोरात्मने । ४ । ४ । ३६।बृतः परयोरात्मनेपदविषये सिजाशिषोरादिरिट्वा स्यात् । प्रावृत, प्रावरिष्ट । अवृत, अवरीष्ट । आस्तीर्ट, आस्तरिष्ट । प्रावृषीष्ट, प्रावरिषीष्ट । वृषीष्ट, वरिषीष्ट । आस्तीर्षीष्ट, आस्तरिषीष्ट । आत्मने इति किम् ? प्रावा. रीत् ॥ ३६॥
संयोगाद् ऋतः। ४ । ४ | ३७ । धातोः संयोगात् परो य ऋत् तदन्तात् पस्योरात्मनेपदविषयसिजाशिषोरादिस्ट् िवा स्यात् । अस्मरिषाताम् , अस्मृषाताम् । स्मरिषीष्ट, स्मृषीष्ट । संयोगादिति किम् ? अकृतः॥ ३७॥
१ वृगट् वृश। इत्याभ्यां धातुभ्याम् ।