SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [२९७] णाविति किम् ? अधिजिगांसते । सनङ इति किम् ? अध्यापयति ॥ २७॥ वाऽद्यतनी-क्रियातिपत्त्योर्गीङ् । ४ । ४ । २८ । अनयोरिडोगीङ् वा स्यात् । अध्यगीष्ट, अध्यैष्ट । अध्यगीष्यत, अध्यैष्यत ॥ २८ ॥ अट् धातोरादिस्तिन्यां चाऽमाङा । ४।४ । २९ । यस्तन्यामद्यतनीक्रियातिपत्योश्च विषये धातोरादिरट् स्यात् , न तु माङ्योगे । अयात् , अयासीत् , अयास्यत् । अमाळेति किम् ? मा स्म कार्षीत । धातोरिति किम् ? प्रायाः ॥ २९ ॥ एत्यस्तेवृद्धिः । ४।४।३०। . इणिकोरस्तेश्चाऽऽदेर्खास्तन्यां विषये वृद्धिः स्यात् , न तु माङा । आयन्, अध्यायन , आस्ताम् । अमात्येव ? मा स्म ते यन् ॥ ३० ॥ ____ स्वरादेस्तासु । ४ । ४ । ३१ । स्वरार्धातोरादेरद्यतन्यां क्रियातिपत्तियस्तनीषु विषये वृद्धिः स्यात, अमाङा । आटीत्, ऐषिष्यत् , औज्झत् । अमाडेत्येव ? मा सोऽटीत् ॥ ३१ ॥ - स्ताद्यशितोऽत्रोणादेरिद । ४।४ । ३२।. धातोः परस्य सादेस्तादेश्वाशित आदिरिट् स्यात् , न तु त्रोणाद्योः । लविष्यति, लविता । स्तादीति किम् ? भूयात् । अशित इति किम् ? आस्से । अत्रोणादेरिति किम् ? शस्त्रम् , वत्सः, हस्तः ॥ ३२ ॥ .१ त्रप्रत्यये उणादिषु चेट् न भवतीति भावः । “शस्त्रम्" इति त्रस्य, "वत्सः, हस्तः" इति उणादेरुदाहरणानि सन्ति । "त्रोणाद्योः" इत्यत्र षष्ठीद्विवचनम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy