________________
[२९६ ]
हैमशब्दानुशासनस्य
ऋः शृ-दृ-प्रः । ४ । ४ । २० । एषां परोक्षायामृर्वा स्यात् । विशश्रतुः, विशशरतुः । विदद्रतुः, विददरतुः । निपप्रतुः, निपपरतुः ॥ २० ॥ eat as आशिषि अत्र । ४ । ४ । २१ | आशीर्विषये हन्तेर्वधः स्यात्, न तु निटि । बध्यात् । अञाविति किम् ? घानिषीष्ट ॥ २१ ॥
अद्यतन्यां वा त्वात्मने । ४ । ४ । २२ । अद्यतन्यां विषये हनो वधः स्यात्, आत्मनेपदे तु वा । अवधीत् । अवधिष्ट, आहत ॥ २२ ॥ इण्-इकेोर्गा । ४ । ४ । २३ |
इणिकोरचतन्यां गाः स्यात् । अगात्, अध्यगात् ||२३|| णावज्ञाने गमुः । ४ । ४ । २४ ।
इणिकोरज्ञनार्थयोर्णी गमुः स्यात् । गमयति, अधिगमयति । अज्ञान इति किम् ? अर्थान् प्रत्याययति ||२४|| सनि इङश्च । ४ । ४ । २५ ।.
इङ इणिकोश्चाज्ञानार्थयोः सनि गमुः स्यात् । अधि जिगांसते, जिगमिषति ग्रामम्, मातुरधिजिगमिषति
।। २५ ।।
गाः परोक्षायाम् । ४ । ४ । २६ ।
इङः परोक्षाविषये गाः स्यात् । अधिजगे ॥ २६ ॥ णौ सन् - डे वा । ४ । ४ । २७ ।
•
सन्डे परे णौ इडो गा वा स्यात् । अधिजिगापथिपति, अध्यापिपयिषति । अध्यजीगपत्, अध्यापिपत् ।