SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः . [२९५] छा-शोर्वा । ४ । ४ । १२ । छाशोस्तादौ किति इर्वा स्यात् । अवच्छितः, अवच्छातः । निशितः, निशातः ॥ १२ ॥ शो व्रते । ४।४ । १३ । । श्यतेः व्रते-व्रतविषये प्रयोगे नित्यमिः स्यात् । संशितंव्रतम् , संशितः साधुः ॥ १३ ॥ हाका हिः क्त्वि । ४ । ४ । १४ । हाकस्तादो किति क्त्वायां हिः स्यात् । हित्वा । क्त्वीति किम् ? हीनः । तीत्येव ? प्रहाय ॥ १४ ॥ धागः । ४ । ४ । १५ । धागस्तादो किति हिः स्यात्। विहितः, हित्वा ॥१५॥ यपि चाऽदो जग्ध् । ४ । ४ । १६ । तादौ किति यपि चाऽदेग्ध् स्यात् । जग्धिः, प्रजग्ध्य ॥१६॥ घस्ल सनद्यतनी-घाचलि । ४।४।१७) एष्वदेस्लिः स्यात् । जिघत्सति, अघसत्, घासः, प्रात्तीति प्रघसः, प्रादनं प्रघसः ॥ १७ ॥ परोक्षायां नवा । ४ । ४ । १८ । __ अदेः परोक्षायां घस्लरादेशो वा स्यात् । जक्षुः, आदुः . ॥ १८॥ वेर्वय । ४।४ । १९ । वेगः परोक्षायां वय् वा स्यात् । अयुः, ववुः ॥१९॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy