________________
[२९४] हैमशब्दानुशासनस्य
भृज्जो भ“ । ४ । ४।६। भृजतेरशिति भर्ज वा स्यात् भष्टी, भ्रष्टा ॥ ६ ॥
प्राद दागस्त आरम्भे क्ते।४ । ४ । ७।
आरम्भार्थस्य प्रपूर्वस्य दागः क्ते परे त्तो वा स्यात्। प्रत्तः प्रदत्तः । प्रादिति किम् ? पेरीत्तम् ॥ ७॥ ..
नि-वि-सु-अनु-अवात् । ४ । ४।८। एभ्यः परस्य दागः क्ते त्तो वा स्यात् । नीत्तम् , निदत्तम् । बीत्तम् , विदत्तम् । सूत्तम्, सुदत्तम् । अनूत्तम् , अनुदत्तम् । अवत्तम् , अवदत्तम् ॥ ८॥
स्वरादुपसर्गाद् दः ति कित्यधः ।४।४९॥ स्वरान्तादुपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति त्तो नित्यं स्यात् । प्रत्तः, परीत्रिमम् । उपसगोंदिति किम् ? दधि दत्तम् । स्वरादिति किम् ? निर्दत्तम् । द इति किम् ? प्रदाता व्रीहयः। तीति किम् ? प्रदाय । अध इति किम् ? निधीतः ॥९॥
दत् । ४।४।१०। अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः, दत्तिः । अध इत्येव ? धीतः ॥ १० ॥
दो-सोमा-स्थ इः । ४ । ४ । ११ । एषां तादौ किति इः स्यात् । निर्दितः, सित्वा, मितिः, स्थितवान् ॥ ११ ॥
१ अत्र "स्वरादुप........."(४-४-९) सूत्रान्नित्यं तः।
२ अत्र नाम्यन्तस्योपसर्गस्य "दस्ति" (पृ. १७९) सूत्रेण दीर्घत्वम् । एवमन्यत्राऽपि । निदत्तं प्रदत्तमित्यादिषु दासंज्ञस्य “दत्" (४-४-१०) सूत्रेण 'दत्' इत्यादेशः ।