________________
॥ चतुर्थः पादः॥
अस्ति-ब्रुवोर्भूचचावशिति । ४ । ४।१।
आस्तिब्रुवोर्यथासंख्य भूवचौ स्याता, अशिति विषये। भव्यम् , अवोचत् । अशितीति किम् ? स्यात्, भूते ॥१॥
अघञ्-क्यप-अलच्यजेवी।४।४।२। अघनादावशिति विषये अजे: स्यात्। प्रवेयम्। अधवक्यषलचीति किम् ? समाजः, समन्या, उदजः, भजः पशुः ॥२॥
..तृ-अने वा । ४।४।३। बनयोर्विषयभूतयोरजेर्वी वा स्यात् । प्रवेता, प्राजिता, प्रवयणः, प्राजनो दण्डः ॥३॥ .. चक्षो वाचि कशांग्-ख्यांग । ४।४।४।
चक्षो वागर्थस्याशिति विषये शांगल्यांगो स्याताम् । आक्शास्यति, आक्शास्यते । आख्यास्पति, 'आख्यास्यते । आक्शेयम् , आख्येयम् । वाचीति किम् ? पोधे विचक्षणः ॥ ४ ॥
नवा परोक्षायाम् । ४ । ४ । ५। चक्षो वाचि क्शांग्ख्यांगो परोक्षायां वा स्याताम् । आचक्शो, आचख्यो, भाचचक्षे ॥५॥
१ मत्रानुस्वारेद् इडभावार्य इति बृहद्वृत्तिकारः ।