________________
[२९२] हैमशब्दानुशासनस्य
रिश-क्याऽऽशीयें। ४ । ४ । ११०।
फादन्तस्य धातोः ऋतः शे क्ये आशीर्ये च परे रिः स्यात् । व्याप्रियते, क्रियते, हियात् ॥ ११० ॥
ईः च्चाववर्णस्याऽनव्ययस्य । ४।३ । १११ ॥ अनव्ययस्यावर्णान्तस्य च्चावीः स्यात् । शुक्लीस्यात् , मालीस्यात् । अनव्ययस्येति किम् ? दिवाभूतारात्रिः॥१११॥
. क्यनि । ४ । ३ । ११२ । अवर्णान्तस्य क्यनि ईः स्यात् । पुत्रीयति । मालीयति ॥ ११२ ॥ क्षुत्-तृ-गद्धेऽशनायोदन्य-धनायम् । ४।४।११३ ।
एष्वर्थेषु यथासंख्यमशनादयः क्यन्नन्ता निपात्यन्ते । अशनायति, उदन्यति, धनायति । क्षुदादाविति किम् ? अशनीयति, उदकीयति, धनीयति दातुम् ॥ ११३ ॥ वृषाऽश्वाद मैथुने स्सोऽन्तः । ४ । ३ । ११४ ।
आभ्यां मैथुनार्थाभ्यां क्यनि स्सोऽन्तः स्यात् । वृषस्यति गौः, अश्वस्यति वडवा । मैथुने इति किम् ? वृषीयति, अश्वीयति ब्राह्मणी ॥ ११४ ॥
अस् च लौल्ये। ४ । ३ । ११५। भोगेछातिरेको लौल्यं । तत्र गम्ये क्यनि परे नाम्ना स्सोऽम् चान्तः स्यात् । दधिस्यति, दध्यस्यति । लौल्य इति किम् ? क्षीरीयति दातुम् ॥ ११५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलपुवृत्तौ चतुर्थस्याध्यायस्य
तृतीयः पादः समाप्तः ॥ ४।३॥ .