________________
स्वोपज्ञलघुवृत्तिः
किर्डातीय शय् | ४ | ३ | १०५ |
शीङ: क्ङिति यादौ शय् स्यात् । शय्यते, शाशय्यते । तीति किम् १ शेयम् ॥ १०५ ॥
[ २९१ ]
उपसर्गाद् ऊहो ह्रस्वः । ४ । १ । १०६ । उपसर्गात् परस्योहतेरूतः क्ङिति यादौ परे ह्रस्वः स्यात् । समुह्यते । उपसर्गादिति किम् ? ऊह्यते । यीत्येव ? समूहितम् । ऊ ऊह इति प्रश्लेषः किम् ? आ उद्यते ओह्यते, समोह्यते ॥ १०६ ॥
आशिषीणः । ५ । ४ | ३ | १०७ । उपसर्गात् परस्येण ईतः क्ङिति यादावाशिषि हस्वः स्यात् । उदियात् । ई इण इति प्रश्लेषः किम् ? आ ईयात् एयात्, समेयात् ॥ १०७ ॥
दीर्घश्व्वि-यङ्- यक्-क्येषु च । ४ । ३ । १०८ । एषु यादवाशिषि च दीर्घः स्यात् । शुचीकरोति, तोष्ट्रयते, मन्तूयति, दधीयति, भृशायते, लोहितायते, स्तूयते, ईयात् ॥ १०८ ॥
ऋतोरीः । ४ । ३ । १०९ ।
व्याद् ऋदन्तस्य ऋतः स्थाने रीः स्यात् । पित्री - स्यात्, चेक्रीयते, मात्रीयते पित्रीयते । ऋत इति किम् ? चेकीर्यते ॥ १०९ ॥
१ अत्र “लघुम्यासकार एवमाह - ऊकारात् षष्ठयाः सूत्रत्वात् लुप् उहश्व षष्ठी, एवं प्रश्लेषः । एवमुत्तरसूत्रेऽपि इण इत्यत्र " । ( ४-३ - १०८ ) सूत्रेण दीर्घस्य " आशिषीणः " सूत्राद् 'उदियात्' इत्यत्र इणो ह्रस्वत्वम् ।
२ स्तूयते इति क्यान्तस्य, ईत्मादित्याशिष उदाहरणमस्ति ।