SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [२८७] नादिवर्जनं किम् ? दिदरिद्रासति, दरिद्रायको याति, दरिद्रायकः, दरिद्राणम् ॥ ७७ ॥ - व्यञ्जनाद् देः सश्च दः । ४।३।७८ । धातोर्व्यञ्जनान्तात् परस्य दे क् स्याद्, यथासम्भवं धातोः सो दश्च । अचकात् , अजागः, अविभः, अन्धशात् । व्यञ्जनादिति किम् ? अयात् ॥ ७८ ॥ सेः सू-द-धां च हो । ४ । ३ । ७९ । व्यञ्जनान्ताद् धातोः परस्य सेलक् स्यात् , यथासम्भवं सदधा वा रुश्च। अचकास्त्वम् , अचकात् त्वम्। अभिनस्त्वम् , अभिनत् त्वम् । अरुणस्त्वम् , अरुणत् त्वम् ॥ ७९॥ . _.. योऽशिति । ४।३। ८० । धातोर्व्यञ्जनान्तात् परस्य योऽशिति प्रत्यये लुक् स्यात् । जङ्गमिता। व्यञ्जनादित्येव ? लोलूयिता । अशितीति किम् ? बेभिद्यते ।। ८० ॥ क्यो वा । ४।३।८१ । धातोय॑ञ्जनात् परस्य क्योऽशिति प्रत्यये लुग् वा स्यात् । समिधिष्यति, समिध्यिष्यति । दृषदिष्यते, दृषविष्यते ॥ ८१ ॥ . अतः । ४।३। ८२ । अदन्ताद् धातोर्विहितेऽशिति प्रत्यये धातोरतो लुक् स्यात् । कथयति । विहितविशेषणं किम् ? गतः॥८२॥ णेरनिटि । ४ । ३ । ८३। अनिटपशिति प्रत्यये णे क् स्यात् । अततक्षत् , चेतनः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy