________________
[२८६] हैमशब्दानुशासनस्य
सोधि वो। ४।३ । ७२। धातो(दो प्रत्यये सो लुग् वा स्यात् । चकाधि, चकाद्धि । 'अलविध्वम्, अलविढ्वम् ॥ ७२ ॥
अस्तेः सि हस्त्वेति । ४।३ । ७३ । अस्तेः सः सादौ प्रत्यये लुक् स्यात्, एति तु सो हः । असि, ब्यतिसे, व्यतिहे, भावयामाहे ॥ ७३ ॥
दुह-दिह-लिह-गुहोदन्त्यात्मने वा
सकः । ४ ।३ । ७४ । एभ्यः परस्य सको दन्त्यादौ आत्मनेपदे लुग् वा स्यात् । अदुग्ध, अधुक्षत। अदिग्ध, अधिक्षत । अलीढाः, अलिक्षथाः । न्यगुह्वहि, न्यघुक्षावहि । दन्त्य इति किम् ? अधुक्षामहि ॥ ७४ ॥
स्वरेऽतः । ४।३ । ७५। सकोऽस्य स्वरादौ प्रत्यये लुक् स्यात् । अधुक्षाताम् ॥ ७५ ॥
दरिद्रोऽद्यतन्यां वा । ४।३ । ७६ । दरिद्रोऽद्यतन्यां विषये लुग् वा स्यात् । अदरिद्रीत्, अरिद्रासीत् ।। ७६ ॥ अशित्यस-सन्-णकच-णकाऽनटि । ४।३। ७७ ।
सादिसन्नादिवर्जे अशिति विषये दरिद्रो लुक् स्यात् । दुर्दरिद्रम् । अशितीति किम् ? दरिद्राति । स.
१ इदं रूपयुग्मं लूधातोः ।
२ एकारे परे । अकारसकारलोपे व्यतिसे, इति से परे रूपम् । एकारे परे तु सस्य हकारे व्यतिहे इत्यादि ।