SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [२८५] अभूत् , अस्थात् । परस्मैपदइति किम् ? अपासत पयांसि तैः ॥६६॥ धे-घा-शा-च्छा-सो वा । ४ । ३ । ६७। । एभ्यः परस्य सिचः परस्मैपदे लुब् वा स्यात् , लुब्योगे च नेट् । अधात् , अधासीत् । अघ्रात् , अघासीत् । अशात् , अशासीत् । अच्छात् , अच्छासीत् । असात् , असासीत् ॥ ६७॥ तन्भ्यो वा त-थासि न-णोश्च । ४ । ३ । ६८ । तनादिभ्यः परस्य सिचस्ते थासि च लुप् वा स्यात्, तद्योगे नणोश्च लुप, न चेद् । अतत, अतनिष्ट । अतथाः, अतनिष्ठा असत, असनिष्ट । असथाः, असनिष्ठाः ॥ ६८॥ . सनस्तत्राऽऽवा । ४।३ । ६९। सनो लुपि सत्याम् आ वा स्यात् । असात, असत । असाथाः, असथाः। तत्रेति किम् ? असनिष्ट ।। ६९ ॥ धुटू-हस्वात् लुगनिटस्त-थोः।४ । ३ । ७० । धुडन्तात् ह्रस्वान्ताच धातोः परस्यानिटः सिचस्तादो थादौ च लुक् स्यात् । अभित्त, अभित्थाः, अकृत, अकृथाः अनिट इति किम् ? व्यद्योतिष्ट ॥ ७० ॥ इट ईति । ४ । ३ । ७१ । इटः परस्य सिच ईति लुक् स्यात् । अलावीत् । इट इति किम् ? अकार्षीत् । ईतीति किम् ? अभणिषम् ॥७१॥ १ तत्र इत्यस्य लुपि, इत्यर्थः, तच्छन्दस्य सप्तमीनिपातोऽयम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy