SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ [२८८] हैमशब्दानुशासनस्य अनिटीति किम् ? कारयिता ॥ ८३ ।। सेटूक्तयोः । ४।३। ८४ । सेटोः क्तयोः परयोर्णलक स्यात् । कारितः, गणितवान् ॥ ८४॥ आम-अन्ताऽऽल्वाऽऽय्येनौ अय् । ४ । ३ । ८५ । एषु परेषु णेरय् स्यात् । कारयाञ्चकार, गण्डयन्तः, स्पृहयालुः, महयाय्या, स्तनयित्नुः ।। ८५॥ . लघोर्यपि । ४ । ३ । ८६ । लघोः परस्य णेर्यपि अय स्यात् । प्रशमय्य । लघोरिति किम् ? प्रतिपाद्य ॥ ८६॥ . वाऽऽनोः । ४ । ३ । ८७ । आमोः परस्य णेर्यप्यय वा स्यात् । प्रापय्य, प्राप्य । आमोरिति किम् ? अध्याप्य ।। ८७ ॥ मेडो वा मित् । ४ । ३। ८८।। मेडो यपि मिद्वा स्यात् ।अपमित्य, अपमाय ।। ८८॥ क्षेःक्षीः ।४।३।८९। क्षेर्यपि क्षीः स्यात् । प्रक्षीय ॥ ८९ ।। क्षय्य-जय्यौ शक्तौ । ४ । ३ । ९० । क्षिज्योरन्तस्य शक्तो गम्यायां ये प्रत्ययेऽय् निपात्यते । क्षय्यो व्याधिः, जय्यः शत्रुः। शक्ताविति किम् ? क्षेयं पापम् , जेयं मनः ॥ ९०॥ क्रय्यः क्रयार्थे । ४ । ३ । ९१ । . क्रियोऽन्तस्य ये प्रत्ययेऽय् निपात्यते , ऋयाय चेत् प्रसारितोऽर्थः । क्रय्यो गौः । क्रयार्थ इति किम् ? क्रेयं ते
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy