SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [२७७] . णाति । अविदिति किम् ? एति । शिदिति किम् ? चे. षीष्ट ॥२०॥ इन्ध्यसंयोगात् परोक्षा किद्धत् । ४ । ३ । २१। इन्धेरसंयोगान्ताच परा अवित्परोक्षा किद्वत् स्यात् । समीधे, निन्युः । इन्ध्यसंयोगादिति किम् ? सस्रंसे ॥२१॥ . स्वजेनेवा । ४ । ३ । २२ । स्वोः परोक्षा वा किद्वत् स्यात् । सस्वजे, सस्वले ॥ २२ ॥ ज-नशो न्युपान्त्ये तादिः क्त्वा । ४।३। २३ । जन्तात् नशेश्च न्युपान्त्ये सति तादिः क्त्वा किद्वद्वा स्यात् । रक्त्वा, रङ्क्त्वा । नष्ट्वा । नंष्ट्वा । नीति किम् ? भुक्त्वा । उपान्त्य इति किम् ? निक्त्वा । तादिरिति किम् ? विभज्य ॥ २३ ।। ऋत्-तृष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट् । ४।३ ।२४। न्युपान्त्ये सत्येभ्यो वा क्त्वा सेट किद्वत् स्यात् । ऋतित्वा, अर्तित्वा । तृषित्वा, तर्षित्वा । मृषित्वा, मपित्वा । कृशित्वा, कर्शित्वा । वचित्वा, वश्चित्वा । लुचित्वा, लुश्चित्वा । श्रथित्वा, श्रन्थित्वा । गुफित्वा, गुम्फित्वा । न्युपान्त्य इति किम् ? कोथित्वा, रेफित्वा । सेडिति किम् ? वक्त्वा ॥ २४ ॥ वो व्यञ्जनाऽऽदेः सन् चाऽयचः । ४।३। २५ । वो उदित्युपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वा १ अत्र किकरण गुणादिप्रतिषेधार्थम् , यजादिवचिस्वपीनां वृदर्थ जागर्तेश्च गुवार्थम् । डिति तन्न स्यात् । स्रंशः संयोगान्तत्वात् अकित्त्वं, तेन नस्य लुय् न जातः । __२ उश्च इश्व विः, तस्मिन् वौ सतीति सन्धिपदम्। उकारइकारोपान्त्यवतो धातो. -रित्यर्थः । अकिद्वत्पक्षे-"घोरूपान्त्यस्य" (पृ. २७४) सूत्रेण गुणः । एवमन्यत्रापि ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy