SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ [ २७६ ] हैमशब्दानुशासनस्य दयुक्तोपान्त्यस्य शिति स्वरे। ४ । ३ । १४ । . .. धुक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति गुणो न स्यात् । नेनिजानि । उपान्त्यस्येति किम् ? जुहवानि । शितीति किम् ? निनेज ॥ १४ ॥ हइशोरविति व्-यौ । ४ । ३ । १५। .. .... होरिणश्च नामिनः स्वरादावपिति अविति च शिति यथासंख्यं व्यौ स्याताम् । जुह्वति, यन्तु । अग्वितीति किम् ? अजुहवुः । अयानि ॥ १५ ॥ इको वा। ४।३।१६। इका स्वरादावविति शिति वा स्यात् । अधियः न्ति, अधीयन्ति ॥ १६ ॥ __कुटादेर्डिद्धद् अणित् । ४ । ३ । १७ । ... कुटादेः परो णिदर्जप्रत्ययो डिद्वत् स्यात् । कुटिता, गुता। अणिदिति किम् ? उत्कोटः, उच्चुकोट ॥ १७ ॥ विजेस्ट् ि । ४ ।३।१८। विजेरिट जिद्वत् स्यात् । उद्विजिता । इडिति किम् ? उद्रेजनम् ॥ १८ ॥ वोर्णोः । ४ । ३ । १९ । ऊपोरिड् वा विद्वत् स्यात् । प्रोणुविता, प्रोणविता ॥ १९॥ शिदवित् । ४।३ । २० । धातोर्विदर्जः शित् प्रत्ययो डिद्वत् स्यात् । इतः, क्री १ पकारवकारानुवन्धवति प्रत्यये न भवतीत्यर्थः । अजुहारेत्यत्र पुस् प्रत्ययः । अयानीत्यत्राऽऽनिव् प्रत्ययः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy