SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [२७५] . ऋवर्ण-दृशोऽडिः । ४ । ३ । ७ । ऋवर्णान्तानां दृशेश्चाऽङि परे गुणः स्यात् । आरत्, असरत्, अजरत् , अदर्शत् ।। ७॥ स्कृ-ऋच्छृतोऽकि परीक्षायाम् । ४ । ३।८। स्कृऋच्छोः ऋदन्तानां च नामिनः परोक्षायां गुणः स्यात्, न तु कोपलक्षितायां क्वसुकानोः । सञ्चस्का, आनछु, तेरुः । अकीति किम् ? सञ्चस्कृवान् ॥ ८॥ संयोगाद् ऋदर्तेः । ४ । ३ । ९ । संयोगात् परो य ऋत् , तदन्तस्वासेश्च परोक्षायामकि गुणः स्यात् । सस्मरुः, सस्वरुः, आरुः। संयोगादिति किम् ? चक्रुः ॥९॥ क्य-यङाशीर्ये । ४।३।१०। संयोगात् य ऋत्, तदन्तस्यार्तेश्च क्ये यड्याशीर्य च गुणः स्यात् ।स्मयते, स्वयंते, अयंते, सास्मयंते, सास्वर्यते, अरायते, स्मर्यात, अर्यात् ॥ १०॥ न वृद्धिश्चाविति क्डि ल्लोपे । ४।३ । ११ । अविति प्रत्यये यः कितो कितश्च लोपः, तस्मिन् . सति गुणो वृद्धिश्च न स्यात् । चेच्यः, मरीमृजः ॥ ११ ॥ . भवतेः सिज्लुपि । ४ । ३ । १२। ___ भुवः सिज्लुपि गुणो न स्यात्। अभूत्। सिज्लुपीति किम् ? व्यत्यभविष्ट ॥ १२ ॥ सूतेः पञ्चम्याम् । ४ । ३ । १३ । सूतेः पञ्चम्यां गुणो न स्यात् । सुवै ॥१३॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy